|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.55. अध्यायः 055
Mahabharata - Drona Parva - Chapter Topics
व्यासेन युधिष्ठिरं प्रति षोडशराजकीयाख्यानकथनप्रारम्भः॥ 1 ॥ नारदेन सृञ्जयम्प्रति मरुत्तराजचरितकथनम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-55-0x(4402)(46929)
श्रुत्वा मृत्युसमुत्पत्तिं कर्माण्यनुपमानि च।
धर्मराजः पुनर्वाक्यं प्रसाद्यैनमथाब्रवीत्॥ 7-55-1(46930)
युधिष्ठिर उवाच। 7-55-2x(4403)
गुरवः पुण्यकर्माणः शक्रप्रतिमविक्रमाः।
पूर्वं राजर्षयो ब्रह्मन्कियन्तो मृत्युना हताः॥ 7-55-2(46931)
भूय एव तु मां तथ्यैर्वचोभिरभिबृंहय।
राजर्षीणां पुराणानां समाश्वासय कर्मभिः॥ 7-55-3(46932)
कियन्त्यो दक्षिणा दत्ताः काश्च दत्ता महात्मभिः।
राजर्षिभिः पुण्यकृद्भिस्तद्भवान्प्रब्रवीतु मे॥ 7-55-4(46933)
`व्यास उवाच। 7-55-5x(4404)
अन्येपि यज्वनां लोका अन्ये चापि तपस्विनाम्।
क्षमावतां च त्रींल्लोकाञ्शूरा गच्छन्ति भारत॥ 7-55-5(46934)
क्षत्रियस्य तुं सङ्ग्रामे शत्रून्हत्वा हतस्य वा।
फलमत्यन्तमित्याहुर्धर्मशास्त्रविदो जनाः॥ 7-55-6(46935)
वेदविद्याव्रतस्नाता यज्वानः पुत्रिणश्च ये।
तेभ्यः परार्थ्या यज्वानो यज्वभ्यश्च तनुत्यजः॥ 7-55-7(46936)
स वीरो यज्वनो नित्यं क्षत्रियानार्जुनिर्गतः।
लोकान्पुण्यतमानिष्टानिति विद्धि विशाम्पते॥ 7-55-8(46937)
सर्वेषां नृपसिंहानां शृणु यज्ञान्नृपोत्तम।
तानतिक्रम्य गच्छन्ति स्वर्गकामास्तनुत्यजः॥ 7-55-9(46938)
युधिष्ठिर उवाच। 7-55-10x(4405)
सर्वेषां यज्वनां यज्ञं श्रोतुमिच्छामि सुव्रत।
दक्षिणाश्चानुरूपेभ्यो दत्ता राजर्षिसत्तमैः'॥ 7-55-10(46939)
व्यास उवाच। 7-55-11x(4406)
शैब्यस्य नृपतेः पुनः सृञ्जयो नाम नामतः।
सखायौ तस्य चेवोभौ ऋषी पर्वतनारदौ॥ 7-55-11(46940)
तौ कदाचिद्गृहं तस्य प्रविष्टौ तद्दिदृक्षया।
विधिवच्चार्चितौ तेन प्रीतौ तत्रोषतुः सुखम्॥ 7-55-12(46941)
तं कदाचित्सुखासीनं ताभ्यां सह शुचिस्मिता।
दुहिताऽभ्यागमत्कन्या सृञ्जयं वरवर्णिनी॥ 7-55-13(46942)
तयाऽभिवादितः कन्यामभ्यनन्दद्यथाविधि।
तत्सलिङ्गाभिराशीर्भिरिष्टाभिरभितः स्थिताम्॥ 7-55-14(46943)
तां निरीक्ष्याब्रवीद्वाक्यं पर्वतः प्रहसन्निव।
कस्येयं चञ्चलापाङ्गी सर्वलक्षणसम्मता॥ 7-55-15(46944)
उषा स्विद्भाः स्विदर्कस्य ज्वलनस्य शिखापि वा।
श्रीर्द्द्रिः कीर्तिंर्धृतिः षुष्टिः सिद्धिश्चन्द्रमसः प्रभा॥ 7-55-16(46945)
सञ्जय उवाच। 7-55-17x(4407)
एवं ब्रुवाणं देवर्षिं नृपतिः सृञ्जयोऽब्रवीत्।
ममेयं भगवन्कन्या वर्या वरमभीप्सति॥ 7-55-17(46946)
नारदस्त्वब्रवीदेनं देहि मह्यमिमां नृप।
भार्यार्थं सुमहच्छ्रेयः प्राप्तुं चेदिच्छसे नृप॥ 7-55-18(46947)
ददानीत्येवं संहृष्टः सृञ्जयः प्राह नारदम्। 7-55-19(46948)
व्यास उवाच।
`एवमुक्ते नृपतिना क्रोधपर्याकुलेक्षणः'।
पर्वतस्तु सुसङ्क्रुद्धो नारदं वाक्यमब्रवीत्॥ 7-55-19x(4408)
पूर्वं ममैव मनसा विद्धि भार्यां वृतामृषे।
यस्मादपाचरस्तस्मात्स्वर्गं न गच्छसि॥ 7-55-20(46949)
एवमुक्तो नारदस्तं प्रत्युवाचोत्तरं वचः।
मनोवाग्बुद्धिसम्भाषा सत्यं तोयमथाग्नयः॥ 7-55-21(46950)
पाणिग्रहममन्त्राश्च प्रथितं दारलक्षणम्।
न त्वेषां निश्चिता निष्ठा त्वया सा मनसा स्मृता॥ 7-55-22(46951)
`एवं विद्वांस्तु मां यस्मादनुव्याहृतवानसि'।
तस्मात्त्वमपि न स्वर्गं गमिष्यसि मया विना।
अन्योन्यमेवं शप्त्वा वै तस्थतुस्तत्र तौ तदा॥ 7-55-23(46952)
अथ सोऽपि नृपो विप्रान्पानाच्छादनभोजनैः।
पुत्रकामः परं शक्त्या यत्नाच्चोपाचरच्छुचिः॥ 7-55-24(46953)
तस्य प्रसन्ना विप्रेन्द्राः कदाचित्पुत्रदर्शिनः।
तपःस्वाध्यायनिरता वेदवेदाङ्गपारगाः॥ 7-55-25(46954)
सहिता नारदं प्राहुर्देह्यस्मै पुत्रमीप्सितम्।
तथेत्युक्त्वा द्विजैरुक्तः सृञ्जयं नारदोऽब्रवीत्॥ 7-55-26(46955)
तुभ्यं प्रसन्ना राजर्षे पुत्रमीप्सन्ति ब्राह्मणाः।
वरं वृणीष्व भद्रं ते यादृशं पुत्रमीप्सितम्॥ 7-55-27(46956)
तथोक्तः प्राञ्जली राजा पुत्रं वव्रे गुणान्वितम्।
यशस्विनं कीर्तिमन्तं तेजस्विनमरिन्दमम्॥ 7-55-28(46957)
यस्य मूत्रं पुरीषं च क्लेदः स्वेदश्च काञ्चनम्।
`सर्वं भवेत्प्रसादाद्वै तादृशं तनयं वृणे॥ 7-55-29(46958)
व्यास उवाच। 7-55-30x(4409)
तथा भविष्यतीत्युक्ते जज्ञे तस्योप्सितः सुतः।
काञ्चनस्याकरः श्रीमान्प्रसादाद्वै सुकाङ्क्षितः॥ 7-55-30(46959)
रुदितस्य च नेत्राभ्यामपतत्तस्य नेत्रजम्।
मूत्रं पुरीषं स्वेदश्च सर्वं भवति काञ्चनम्'।
सुवर्णष्ठीविरित्येव तस्य नामाभवत्कृतम्॥ 7-55-31(46960)
तस्मिन्वरप्रदानेन वर्धयत्यमितं धनम्।
कारयामास नृपतिः सौवर्णं सर्वमीप्सितम्॥ 7-55-32(46961)
गृहप्राकारदुर्गाणि ब्राह्मणावसथान्यपि।
शय्यासनानि यानानि स्थालीपिठरभाजनम्॥ 7-55-33(46962)
तस्य राज्ञोऽपि यद्वेश्म बाह्याश्चोपस्कराश्च ये।
सर्वं तत्काञ्चनमयं कालेन परिवर्धितम्॥ 7-55-34(46963)
अथ दस्युगणाः श्रुत्वा दृष्ट्वा चैनं तथाविधम्।
सम्भूय तस्य नृपतेः समारब्धाश्चिकीर्षितुम्॥ 7-55-35(46964)
केचित्तत्राब्रुवन्राज्ञः पुत्रं गृह्णीम वै स्वयम्।
सोऽस्याकरः काञ्चनस्य तस्य यत्नं चरामहे॥ 7-55-36(46965)
ततस्ते दस्यवो लुब्धाः प्रविश्य नृपतेर्गृहम्।
राजपुत्रं तथाऽऽजह्रुः सुवर्णष्ठीविनं बलात्॥ 7-55-37(46966)
गृह्यैनमनुपायज्ञा नीत्वाऽरण्यमचेतसः।
हत्वा विशस्य चापश्यँ ल्लुब्धा वसु न किञ्चन॥ 7-55-38(46967)
तस्य प्राणैर्विमुक्तस्य नष्टं तत्काञ्चनं वरम्।
दस्यवश्च तदाऽन्योन्यं जघ्नुर्मूर्खा विचेतसः॥ 7-55-39(46968)
हत्वा परस्परं नष्टाः कुमारं चाद्भुतं भुवि।
असम्भाव्यं गता घोरं नरकं दुष्टकारिणः॥ 7-55-40(46969)
तं दृष्ट्वा निहतं पुत्रं वरदत्तं महातपाः।
विललाप सुदुःखार्तो बहुधा करुणं नृपः॥ 7-55-41(46970)
विलपन्तं निशम्याथ पुत्रशोकहतं नृपम्।
प्रत्यदृश्यत देवर्षिर्नारदस्तस्य सन्निधौ॥ 7-55-42(46971)
उवाच चैनं दुःखार्तं विलपन्तमचेतसम्।
सृञ्जयं नारदो यद्यत्तन्निबोध युधिष्ठिर॥ 7-55-43(46972)
नारद उवाच। 7-55-44x(4410)
`त्यज शोकं महाराज वैक्लब्यं त्यज बुद्धिमन्।
न मृतः शोचतो जीवेन्मुह्यतो वा नराधिप॥ 7-55-44(46973)
त्यज शोकं नृपश्रेष्ठ न शोचन्ति भवद्विधाः।
वीरो भवान्महाराज ज्ञानवृद्धोऽपि मे मतः'।
कामानामवितृप्तस्त्वं सृञ्जयेह मरिष्यसि॥ 7-55-45(46974)
यस्य चैते वयं गेहे उषिता ब्रह्मवादिनः।
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम॥ 7-55-46(46975)
संवर्तो याजयामास स्पर्धया वै बृहस्पतेः।
यस्मै राजर्षये प्रादाद्धनं स भगवान्प्रभुः।
हैमं हिमवतः पादं यियक्षोर्विविधैः सवैः॥ 7-55-47(46976)
यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः।
देवा विश्वसृजः सर्वे यजनान्ते समासते।
यज्ञवाटस्य सौवर्णाः सर्वे चासन्परिच्छदाः॥ 7-55-48(46977)
यस्य सर्वं तदा ह्यन्नं मनोभिप्रायगं शुचि।
कामतो बुभुजुर्विप्राः सर्वे चान्नार्थिनो द्विजाः।
पयो दधि घृतं क्षौद्रं भक्ष्यं भोज्यं च शोभनम्॥ 7-55-49(46978)
यस्य यज्ञेषु सर्वेषु वासांस्याभरणानि च।
ईप्सितान्युपतिष्ठन्ते प्रहृष्टान्वेदपारगान्॥ 7-55-50(46979)
मरुतः परिवेष्टारो मरुत्तस्याभवन्गृहे।
आविक्षितस्य राजर्षेर्विश्वेदेवाः सभासदः॥ 7-55-51(46980)
यस्य वीर्यवतो राज्ञः सुवृष्ट्या सस्यसम्पदः।
हविर्भिस्तर्पिता येन सम्यक्क्लृप्तैर्दिवौकसः॥ 7-55-52(46981)
ऋषीणां च पितॄणां च देवानां सुखजीविनम्।
ब्रह्मचर्यश्रुतिमुखैः सर्वैर्दानैश्च सर्वदा॥ 7-55-53(46982)
शयनासनपानानि स्वर्णराशीश्च दुस्त्यजाः।
तत्सर्वममितं वित्तं दत्तं विप्रेभ्य इच्छया॥ 7-55-54(46983)
सोनुध्यातस्तु शक्रेण प्रजाः कृत्वा निरामयाः।
श्रद्दधानो जिताँल्लोकान्गतः पुण्यदुहोऽक्षयान्॥ 7-55-55(46984)
सप्रजः सनृपामात्यः सदारापत्यबान्धवः।
यौवनेन सहस्राब्दं मरुत्तो राज्यमन्वशात्॥ 7-55-56(46985)
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-55-57(46986)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये पञ्चपञ्चाशत्तमोऽध्यायः॥ 55 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-55-14 तत्सलिङ्गाभिस्तस्यानुरूपाभिः। अभितः पार्श्वतः॥ 5-55-22 नत्वेषा निश्चिता निष्ठा मैत्री सप्तपदी सतां इति ङ. पाठः। निष्ठा सप्तमदी सतां इति घ. पाठः। सप्तपदी स्मृता इति झ. पाठः॥ 5-55-23 शप्त्वावै तत्र वत्सरमूषतुः इति क.पाठः॥ 5-55-25 पुत्रमीप्सवः इति घ.ङ.झ.पाठः॥ 5-55-26 द्विजैरुक्ततो नारदस्तथेत्युक्त्वा सृञ्जयमब्रवीदित्यन्वयः॥ 5-55-29 क्लेदः श्लेष्मादिः॥ 5-55-31 सुवर्णष्ठीविरित्यनेन गण्डूषादिकमपि काञ्चनं भवतीति सूचितम्॥ 5-55-35 चिकीर्षितुमपकारं कर्तुम्। कॄहिंसायामित्यस्य रूपम्॥ 5-55-47 सवैः यज्ञैः॥ 5-55-57 चतुर्भद्रतरः धर्मज्ञानवैराग्यैश्वर्याणि चत्वारि भद्राणि। धर्मार्थकामबलानीत्यन्ये तुभ्यं तव। अयज्वानमदक्षिण्यं पुत्रं अभिलक्ष्य मानुतप्यथाः हे श्वैत्य श्वित्यपुत्र इति उदाहरन्नारदः सृञ्जयं प्रतीति व्यासवाक्यम्। अदाक्षिण्यं इति झ.पाठः॥ 5-55-55 पञ्चपञ्चाशत्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|